Logo

Kooshmanda Rasayana

205 for 200 G
कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ।
पचेत्तप्ते घृतप्रस्थे शनैस्ताम्रमये दृढे ॥४५॥
यदा मधुनिभः पाकस्तदा खण्डशतं न्यसेत् ।
पिप्पलीशृङ्गवेराभ्यां द्वे पले जीरकस्य च ॥४६॥
त्वग्लेलापत्रमरिचधान्यकानां पलार्द्धकम् ।
न्यसेच्चूर्णीकृतं तत्तु दर्व्या सङ्घट्टयेत्पुनः ॥४७॥
तत्पक्वं स्थापयेद् भाण्डे दत्त्वा क्षौद्रं घृतार्द्धकम् ।
तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी ॥४८॥
कासश्वासतमश्छर्दितृष्णाज्वरनिपीडितः ।
वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ॥४९॥
उरःसन्धानकरणं बृंहणं स्वरवर्द्धनम् ।
अश्विभ्यां निर्मितं श्रेष्ठे कूष्माण्डकरसायनम् ॥५०॥
खण्डामलकमानानुसारात् कूष्माण्डकद्रवात् ।
पात्रं पाकाय दातव्यं यावान्वात्र रसो भवेत् ॥५१॥
Reference: Bhaishajya Rathnavali, Raktapittadhikara, 45-51.
Ingredients:
Kushmanda, Ghrita, Khanda, Pippali, Shunti, Jeeraka, Twak, Ela, Patra, Maricha, Dhanyaka and Madhu.
Indications:
Raktapitta, Ura Kshata, Kshaya, Kasa , Shwasa, Tama, Chardi, Trishna, Jwara, Shukrakshaya, Dourbalya, Karshya, Swarabheda and Vaivarnya.
Dosage:
6 to 12 g or as directed by the physician.
Anupana:
Water / Milk.