Logo

Madhusnuhi Rasayana

245 for 200 G
त्रिकटुत्रिफलात्रिजातजातीफलपत्राग्निवरालधान्यकानि ।
त्रियवानीविडङ्गचव्यकुष्ठत्रिवृद्ग्रन्थिकं वाजिगन्धायुतानि ॥
सभार्ङ्गितेजोवतिकेसराणि निष्कद्वयोन्मानविचूर्णितानि ।
संशुद्धगन्धोपलमाहिषाक्षमधुस्नुहीनां च चतुष्पलानि ॥
द्विषट्पलोन्मानघृते विपक्वे सिता पलद्वादशकं क्षिपेच्च ।
ततोन्मथित्वा तु खजेन तस्मिन् सुपाकमायाति ततोऽवतार्य ॥
पूर्वोक्तचूर्णानि विकीर्य शीते गन्धोपलस्यापि रजांसि दत्वा 
कुष्ठं किलासं पिटकान्प्रमेहान् भगङ्दरार्शोऽर्बुदगण्डमालाः ॥
निहन्ति कण्ड्वामयवातरक्तपित्तोद्भवान्गुह्यभवान्व्रणांश्च ।
रसायनोऽयं मुनिना कृतश्च मधुस्नुहीनामक एष मुख्यः ॥
संयोज्य सम्यक्च सुशीतलेऽस्मिन् प्रस्थं प्रदद्यान्मधुनः सुपात्रे 
विन्यस्य गुप्तं तु रसायनं तत् प्रातर्लिहेत्कर्षयुतं हिताशी ।
Reference: Sahasrayoga, Lehaprakarana, 41.
Ingredients:
Shunti, Maricha, Pippali, Haritaki, Vibhitaki, Amalaki, Tvak, Ela, Tejapatra, Jatiphala, Chitraka, Lavanga, Dhanyaka, Shweta Jiraka, Krishna Jiraka, Vana Jiraka, Vidanga, Chavya, Kushta, Trivrit, Pippali mula, Ashwagandha, Bharangi, Tejovati bija, Nagakesara, Shuddha Gandhaka, Shodhita Guggulu, Sita and Madhu.

Indications:
Prameha Pidaka, Arbuda, Gandamala, Bhagandhara, Guhyavrana, Vatarakta, Kushta, Kilasa, Arshas, Prameha, Kandu and used as Rasayana.
Dosage:
12 g or as directed by the physician.