Logo

Mahalakshmi Vilasa Rasa

535 for 10 Tab
पलं वज्राभ्रचूर्णस्य तदर्धो गन्धको भवेत् ।
तदर्धं वङ्गभस्मापि तदर्धः पारदस्तथा ॥१७॥
तत्समं हरितालञ्च तदर्धं ताम्रभस्मकम् ।
रसतुल्यञ्च कर्पूरं जातीकोषफलं तथा ॥१८॥
वृद्धदारकबीजञ्च बीजं स्वर्णफलस्य च ।
प्रत्येकं कार्षिकं भागं मृतस्वर्णञ्च शाणकम् ॥१९॥
निष्पिष्य वटिका कार्या द्विगुञ्जाफलमानतः ।
निहन्ति सन्निपातोत्थान् गदान् घोरान् सुदारुणान् ॥२०॥
गलोत्थानन्त्रवृद्धिञ्च तथाऽतीसारमेव च ।
कुष्ठमेकादशविधं प्रमेहान् विंशतिं तथा ॥२१॥
श्लीपदं कफवातोत्थं चिरजं कुलजं तथा ।
नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ॥२२॥
कासपीनसयक्ष्मार्शःस्थौल्यदौर्गन्ध्यरक्तनुत् ।
आमवातं सर्वरुपं जिह्वास्तम्भं गलग्रहम् ॥२३॥
उदरं कर्णनासाक्षी-मुखवैजात्यमेव च ।
सर्वशूलं शिरःशूलं स्त्रीरोगञ्च विनाशयेत् ॥२४॥
वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ।
अनुपानमिह प्रोक्तं मांसं पिष्टं पयो दधि ॥२५॥
वारिभक्तं सुरासीधु सेवनात् कामरूपधृक् ।
वृद्धोऽपि तरुणस्पर्द्धी न च शुक्रक्षयो भवेत् ॥२६॥
न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् ।
नित्यं गच्छेत् शतं स्त्रीणां मत्तवारणविक्रमः ॥२७॥
द्विलक्षयोजनि दृष्टिर्जायते पौष्टिकं तथा ।
प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना ॥२८॥
महालक्ष्मीविलासोऽयं वासुदेवो जगत्पतिः ।
प्रसादादस्य भगवान् लक्षनारीषु वल्लभः ॥२९॥
Reference: Rasendra Sara Sangraha, Kapharoga chikitsa, 17-29.
Ingredients:
Shataputi Abhraka bhasma, Shuddha Gandhaka, Vanga bhasma, Shuddha Parada, Shuddha Haratala, Tamra bhasma, Karpura, Jatikosha, Jatiphala, Vriddhadaru bija, Dattura bija and Swarna bhasma.
Indications:
Kasa, Pinasa, Rajayakshma, Sthaulya, Amavata, Vajikarana, Galaroga, Antravruddhi, Kushta, Atisara, Prameha, Shlipada, Vrana, Nadivrana, Bhagandara, Arshas, Udara, Raktavikara, Dourgandhya, Striroga, Twakroga, Karnaroga, Nasaroga, Netraroga, Mukharoga, Shula, and Shirashula.
Dosage:
1 tablet, twice daily.
Adjuvants & Diet:
As prescribed by the physician.