बिल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥१४०॥
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा ।
एषां दशपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत् ॥१४१॥
पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् ।
शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥१४२॥
चन्दनं तगरं कुष्ठमेला पर्णीचतुष्टयम् ।
रास्ना तुरगगन्धा च सैन्धवं सपुनर्नवम् ॥१४३॥
एषां द्विपलिकान् भागान् पेषयित्वा विनिक्षिपेत् ।
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ॥१४४॥
आजं वा यदि वा गव्यं क्षीरं दद्याच्चतुर्गुणम् ।
पाने वस्तौ तथाऽभ्यङ्गे भोज्ये चैव प्रशस्यते ॥१४५॥
अश्वो वा वातसम्भग्नो गजो वा यदि वा नरः ।
पङ्गुश्च पीठसर्पी च तैलेनानेन सिद्ध्यति ॥१४६॥
अधोभागे ये च वाताः शिरोमध्यगताश्च ये ।
मन्यास्तम्भे हनुस्तम्भे दन्तरोगे गलग्रहे ॥१४७॥
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ।
क्षीणेन्द्रियाः क्षीणशुक्रा ज्वरक्षीणाश्च ये नराः ॥१४८॥
बधिरा लल्लजिह्वाश्च मन्दमेधस एव च।
अल्पप्रजा च या नारी या च गर्भं न विन्दति ॥१४९॥
वातार्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा ।
एतत्तैलवरं तेषां नाम्ना नारायणं मतम् ॥१५०॥
Reference: Bhaishajya Rathnavali, Vatavyadhi adhikara, 140-150.
Ingredients:
Shatavari, Bilwa, Agnimantha, Rasna, Prishnaparni, Mudgaparni, Gokshura, Punarnava, Kantakari, Brihati, Atibala, Jatamansi, Devadaru, Kushta, Tagara, Ela, Shalaparni, Kshira, Bala and Taila.
Indications:
Vataroga, Pangu, Shirogata Vata, Manyastambha, Hanustambha, Dantaroga, Galagraha, Ekanga Shosha, Kampa, Kshinendriya, Kshina Shukra, Badhirya, Lalajihvata, Medhalpata, Anda Shula and Antra Vriddhi.
Dosage:
Up to 6 g. It is also used externally for Nasya, Abhyanga and Anuvasana.