रसेन्द्रगन्धकं लौहं वङ्गं सौभाग्यमेव च ।
रजतं चाभ्रताम्रं च प्रत्येकं च पलं पलम् ॥५१॥
गुडूची त्रिफला दन्ती शेफाली कण्टकारिका ।
दारु जीवनी कुष्ठं च बृहती काकमाचिका ॥५२॥
नक्तं तालीसवेत्राग्रं श्वदंष्ट्रा वृषकं बला ।
एतेषां स्वरसैर्भाव्यं त्रिवारं च पृथक् पृथक् ॥५३॥
सैन्धवं मधुकं दन्ती लवङ्गं वंशलोचनम् ।
रास्नां गोक्षुरबीजं च शाणमानं विचूर्णयेत् ॥५४॥
सर्वमेकीकृतं पेष्यं जयन्तीतुलसीरसैः ।
मर्दयेत्वा वटीः कुर्यान्नष्टपुष्पकयोषिताम् ॥५५॥
नष्टपुष्पे नष्टशुक्रे योनिशूले च शस्यते ।
ऋतुशूले क्लेदयोन्यां विशेषे चाममारुते ॥५६॥
एतान् रोगान्निहत्याशु भास्करस्तिमिरं यथा ॥५७॥
Reference: Bhaishajya Ratnavali, Yonivyapat Chikitsa Prakarana 51-57.
Ingredients:
Shuddha Parada, Shuddha Gandhaka, Loha
bhasma, Vanga bhasma, Shuddha Tankana, Rajata bhasma, Abhraka bhasma, Tamra
bhasma, bhavana for 3 times each with Guduchi, Triphala, Danti, Shephali,
Kantakari, Daru, Jeevanti, Brihati, Kakamachi, Haridra, Talisa, Vetragra,
Gokshura,Vasa , Bala Q.S., Saindhava lavana, Yashtimadhu, Danti, Lavanga, Vamsa, Rasna, Gokshura, bhavana with Jayanti
and Tulasi.
Indications:
Nashtapushpa, Nashtashukra, Yonishoola, Ritushoola, Kledayoni, & Amavata.
Dosage:
1
tablet, twice daily.