Logo

Pushyanuga Churna

115 for 50 G
पाठाजम्ब्वाम्रयोर्मध्यं शिलाभेदं रसाञ्जनम् ।
अम्बष्ठकी मोचरसः समङ्गा पद्मकेशरम् ॥४६॥
वाह्लीकातिविषा मुस्तं बिल्वं लोध्रं सगैरिकम् ।
कट्फलं मरिचं शुण्ठी मृद्वीका रक्तचन्दनम् ॥४७॥
कट्वङ्गवत्सकानन्ता धातकी मधुकार्जुनम् ।
पुष्येणोद्धृत्य तुल्यानि श्लक्ष्णचूर्णानि कारयेत् ॥४८॥
तानि क्षौद्रेण संयोज्य पाययेत्तण्डुलाम्बुना ।
असृग्दरातिसारेषु रक्तं यच्चोपवेश्यते ॥४९॥
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ।
योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम् ॥५०॥
स्त्रीणां श्यावारुणं यच्च तत्प्रसह्य निवर्त्तयेत् ।
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ।
अम्बष्ठा दक्षिणे ख्याता गृह्णन्त्यन्ये तु लक्ष्मणाम् ॥५१॥
Reference: Bhaishajya Rathnavali, Strirogadhikara, 46-51.
Ingredients:
Jambu, Amra, Pashanabheda, Rasanjana, Ambastaki (Pata), Mocharasa, Manjista, Padma, Kumkuma, Ativisha, Musta, Bilva, Lodhra, Gairika, Katphala, Maricha, Shunti, Mridvika, Raktachandana, Katvanga, Kutaja, Ananta, Dhataki, Yashti and Arjuna.
Indications:
Asrugdara, Shwetapradara, Rajodosha, Arshas and Yoni dosha.
Dosage:
2-3 g, 2-3 times a day or as directed by the physician.
Anupana:
Honey, Tandulodaka.