Logo

Chyavanaprasha Lehya

195 for 200 G
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला ।
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥६२॥
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ।
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी ॥६३॥
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् ।
विदारी वृषमूलानि काकोली काकनासिका ॥६४॥
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च ।
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ॥६५॥
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् ।
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥६६॥
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् ।
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥६७॥
षट्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥६८॥
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् ।
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ॥६९॥
कासश्वासहरश्चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥७०॥
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ।
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति ॥७१॥
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा ॥७२॥
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् ।
स्त्रीषु प्रहर्षं परमग्निवृद्धिं वर्णप्रसादं पवनानुलोम्यम् ॥७३ ॥
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्
जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवास्य ॥७४॥
Reference: Charaka Samhita, Chikitsa Sthana, 1 (1) / 62-74.
Ingredients:
Bilva, Agnimantha, Shyonaka, Kashmari, Patala, Bala, Shalaparni, Prishnaparni, Mudgaparni, Mashaparni, Pippali, Gokshura, Brihati, Kantakari, Karkatashringi, Tamalaki, Draksha, Jivanti, Pushkara, Agaru, Haritaki, Guduchi, Riddhi, Jivaka, Rishabaka, Shati, Musta, Punarnava, Meda, Ela, Chandana, Utpala, Vidari, Vasa, Kakoli, Kakanasika, Amalaki, Ghrita, Taila, Matsyandika, Madhu, Tugakshiri, Pippali, Tvak, Ela, Tejapatra and Kesara.
Indications:
Kasa, Shwasa, Kshata Kshina, Svarabheda, Kshaya, Hridroga, Agnimandya, Uroroga, Vatarakta, Pipasa, Mutraroga, Shukra dosha, Jara, used as Rasayana, Medhya and Smrutiprada.
Dosage:
12 to 24 g or as directed by the physician.
Anupana:
Water / Milk.